________________
संसद्वेण य हत्थेण, दव्वीए भायणेण वा । दिज्जभाणं पडिच्छिज्जा, जं तत्थेसणिअं भवे ॥ ९५ ॥
'संसद्वेणे 'ति संसृष्टेन हस्तेनान्नादिलिप्तेन, तथा दर्व्या भाजनेन वा दीयमानं प्रतीच्छेत् गृह्णीयात् किं सामान्येन ? नेत्याह-यत् तत्रैषणीयं भवति तदन्यदोषरहितमित्यर्थः । इह च वृद्धसम्प्रदायः" संसट्टे हत्थे संसट्टे मत्ते सावसेसे दव्वे, संसट्टे हत्थे संसट्टे मत्ते निरवसेसे दव्वे, एवं अट्ठभंगा, एत्थ पढमो भंगो सव्वुत्तमो, अन्नेसुवि जत्थ सावसेसं दव्वं तत्थ घेप्पह, न इयरेसु, पच्छाकम्मदोसाओ"ति ॥९५॥ किंच
दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिज्जमाणं न इच्छिज्जा, छंद से पडिलेहए ॥९६॥
'दोहं तु 'त्ति, द्वयोर्भुञ्जतोः पालनां कुर्वतो, एकस्य वस्तुनो नायकयोरित्यर्थः । एकस्तत्र निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दं - अभिप्रायं से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्त्रविकारैः किमस्येदमिष्टं दीयमानं न वेति, इष्टं चेत् गृह्णीयात्, न चेनेति । एवं भुञ्जानयोः - अभ्यवहारायोद्यतयोरपि योजनीयं । यतो “भुजि:- पालने अभ्यवहारे च" वर्तत इति ॥९६॥
"
1
६०
दुहं तु भुंजमाणाणं, दोवि तत्थ निमंतए । दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणिअंभवे ॥९७॥
तथा 'दुहं तु' द्वयोस्तु पूर्ववद् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तत्रा - भि (ति) प्रसादेन निमन्त्रयेयातां तत्रायं विधिः दीयमानं प्रतीच्छेत्-गृह्णीयात्
1
यत् तत्रैषणीयं भवेदिति, तदन्य- दोषरहितमिति ॥९७॥
-
गुव्विणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ९८ ॥
श्रीदशवैकालिकम् ।