SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिआउसे । हरिआले हिंगुलए, मणोसिला अंजणे लोणे ॥९२॥ 'एवं', एवं उदकार्द्रेण, हस्तेन करेण, उदकार्दो नाम गलदुदकबिन्दु-युक्तः । एवं सस्निग्धेन हस्तेन सस्निग्धो नाम ईषदुदकयुक्तः, एवं सरजस्केन हस्तेन-सरजस्को नाम पृथिवीरजोगुण्डितः । एवं मृद्गतेन हस्तेन, मृद्गतो नाम कर्द्दमयुक्तः । एवं ऊषादिष्वपि योज्यं । एतावन्त्येव एतानि सूत्राणि नवरमूषः - पांशुक्षारः, हरिताल - हिङ्गुलकमनःशिलाःपार्थिवाः वर्णकभेदाः, अञ्जनं रसाञ्जनादि, लवणं - सामुद्रादि ॥ ९२ ॥ गेरुअवन्निअसेढिअसोरट्ठिअपिट्ठकुक्कु सकए य । उक्किमसंसट्टे, संसट्टे चेव संसट्टे चेव बोद्धव्वे ॥ ९३ ॥ तथा 'गेरुय'त्ति, गैरु (रि) को - धातु:, वर्णिका - पीतमृत्तिका, सेटिका - खटिका, वेतिका - शुक्लमृत्तिका, सौराष्ट्रका - तुवरिका, पिष्टंआम-तण्डुलक्षोदः, कुक्कुसा:- प्रतीताः कृतेनेत्येभिः कृतेन, हस्तेनेति गम्यते । तथा उत्कृष्ट इत्युत्कृष्टशब्देन कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते । चिञ्चिणिकादि - पत्रसमुदायो वा उदुखलख-(क)ण्डित इति, तथाऽसंसृष्टो - व्यञ्जनादिनाऽलिप्तः, संसृष्टश्चैव व्यञ्जनादि-लिप्तो बोद्वव्यो हस्त इति । विधि पुनरत्रोर्ध्वं स्वयमेव वक्ष्यतीति ॥९३॥ | असंसण हत्थेण, दव्वीए भायणेण वा । दिज्जमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ ९४ ॥ आह च- असंसट्टेणत्ति, असंसृष्टेन हस्तेनान्नादिभिरलिप्तेन दर्व्या भाजनेन वा दीयमानं नेच्छेत् किं सामान्येन ?, नेत्याहपश्चात्कर्म्म यत्र भवति दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति ॥९४॥ श्रीदशवैकालिकम् । ५९
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy