SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ यतमात्म-संयमविराधनापरिहारेण यायादिति ॥६५॥ अत्रैव विशेषतः पृथ्वीकाययतनामाह - इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहि, संजओ तं नइक्कमे ॥६६॥ 'इंगालं 'ति आङ्गारमित्यङ्गाराणामयमाङ्गारस्तमाङ्गारं राशि, एवं क्षारराशिं तुषराशिं च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसम्बध्यते । सरजस्काभ्यां पद्भ्यां-सचितपृथिवीरजोगुण्डिताभ्यां पादाभ्यां संयतः साधुस्तमनन्तरोदितं राशि नातिक्रमेत्, मा भूत् पृथ्वीरजोविराधनेति ॥६६॥ अत्रैवाप्कायादियतनामाहन चरेज्ज वासे वासंते, महिआए वा पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ॥६७॥ 'न चरेज्जति न चरेद्वर्षे वर्षति, भिक्षार्थं प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत् । तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजो-विराधनादोषात्, तिर्यक् संपतन्तीति तिर्यसंपाता:-पतङ्गादयः तेषु वा सत्सु, क्वचिदप्यशनिरूपेण न चरेदिति ॥६७॥ | उक्ता प्रथमव्रतयतना । सांप्रतं चतुर्थव्रतयतनोच्यतेन चरिज्ज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिआ ॥६८॥ 'न चरिज्जे त्ति 'न चरेद्वेश्यासामन्ते' न गच्छेद् गणिका-गृहसमीपे, किविशिष्ट इत्याह-ब्रह्मचर्यवशानयने (नये) ब्रह्मचर्य-मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह-ब्रह्मचारिणः साधोः, 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy