________________
मृत्तिकां च-पृथिवीकायं, चशब्दात्तेजोवायुपरिग्रहः ॥६२॥
उक्तः संयमविराधनापरिहारः । अधुनाऽऽत्म-संयमविराधनापरिहारमाहओवायं विसमं खाणुं, विज्जलं परिवज्जए । संकमेण न गच्छिज्जा, विज्जमाणे परक्कमे ॥३३॥
'ओवाय'मिति, अवपातं-गर्तादिरूपं, विषम-निम्नोन्नतं, स्थाjऊर्ध्वकाष्ठं, विजलं-विगतजलं कर्दमं परिवर्जयेत्-एतत् सर्वं परिहरेत्, तथा सङ्क्रमेण-जलगर्तापरिहाराय पाषाणकाष्टरचितेन न गच्छेत्, आत्मसंयम-विराधनासम्भवात् । अपवादमाह-विद्यमाने पराक्रमे-अन्यमार्ग इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ॥६३॥
अवपातादौ दोषमाहपवडते व से तत्थ, पक्खलंते व संजए । हिंसेज्ज पाणभूयाई, तसे अदुव थावरे ॥६४॥
'पवडते व' इति, प्रपतन् वाऽसौ तत्र अवपातादौ प्रस्खलन् वा संयतः- साधुः हिंस्याद्-व्यापादयेत्, प्राणिभूतानि प्राणिनोद्वीन्द्रियादयः, भूतानि-एकेन्द्रियाः, एतदेवाह-वसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येवमुभयविराधनेति ॥६४॥
तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइ अन्नेण मग्गेण, जयमेव परक्कमे ॥६५॥
यतश्चैवं 'तम्हा' इति, तस्मात् तेन-अवपातादिमार्गेण न गच्छेत्संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः । सत्यन्येनेति, अन्यस्मिन् समादौ, मार्गेणेति मार्गे छान्दसत्वात् सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन् • मार्गे तेनैवावपातादिना यतमेव पराक्रमेत्, यतमिति क्रियाविशेषणं, श्रीदशवैकालिकम् ।