SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 'संपत्ते'-गाहा, सम्प्राप्ते-शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते भिक्षाकाले-भिक्षासमये, अनेनासम्प्राप्ते भक्त-पानैषणाप्रतिषेधमाह । अलाभाशाखण्डनाभ्यां दृष्टादृष्टविरोधात्, असम्भ्रान्तः-अनाकुलो यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः । अमूछितः-पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, न तु पिण्डादावेवासक्त इति । अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारेण भक्तपानं यतियोग्यमोदनारनालादि गवेषयेदिति-अन्वेषयेदिति सूत्रार्थः । ॥६०॥ यत्र यथा गवेषयेत्तदाहसे गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेयसा ॥६१॥ 'से गामे' त्यादि, स इत्यसम्भ्रान्तोऽमूच्छितो ग्रामे वा नगरे वा, उपलक्षणत्वात् कर्बटादौ वा गोचराग्रगत इति गोरिव चरणं गोचरःउत्तममध्यमाधमकुलेष्वरक्तद्विष्टस्य भिक्षाटनमग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतः-तद्वर्ती मुनि:-भावसाधुः चरेत्-गच्छेत् मन्दंशनैःशनैर्न द्रुतमित्यर्थः । अनुद्विग्नः-प्रशान्तः परीषहादिभ्योऽबिभ्यत् अव्याक्षिप्तेन चेतसा-अन्तःकरणेन एषणोपयुक्तेनेति सूत्रार्थः ॥६१॥ यथा चरेत्तथैवाहपुरओ जुगमायाए, पेहमाणो महिं चरे । वज्जंतो बीयहरियाई, पाणे अ दगमट्टियं ॥१२॥ 'पुरओ जुग' त्ति पुरतो-अग्रतो युगमात्रया-शरीरप्रमाणया शकटोद्धिसंस्थितया दृष्टयेति वाक्यशेषः । प्रेक्षमाणः-प्रकर्षेण पश्यन् महीं-भुवं चरेद्-यायात्, न शेषदिगुपयोगेनेति गम्यते । न प्रेक्षमाण एव, अपि तु वर्जयन्-परिहरन् बीजहरितानि, अनेनानेकभेदस्य वनस्पतेः परिहारमाह । तथा प्राणिनो-द्वीन्द्रियादींस्तथोदकं-अप्कायं ४८ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy