________________
'इच्चेय' मित्यादि, इत्येतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः । सम्यग्दृष्टि :- जीवस्तत्त्वश्रद्धानवान् सदा यतः-सर्वकालं प्रयत्नपरः सन् किमित्याह- 'दुर्लभं लब्ध्वा श्रामण्यं' दुष्प्राप्यं प्राप्य श्रमणभावं षड्जीव - निकायसंरक्षणैकरूपं कर्म्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत् न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथंचिद्भवति, तथाप्यसावविराधक एवेत्यर्थः । एतेन "जले जीवाः, स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ॥१॥" इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्च ॥ ५९ ॥ ब्रवीमि इति पूर्ववत् ॥
॥ इति चतुर्थं षड्जीवनिकायाध्ययनं समाप्तम् ४ ॥
蛋蛋蛋
अथ पिण्डैषणानाम पंचमं अध्ययनम् ।
व्याख्यातं षड्जीवनिकायाध्ययनम् । अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्त-राध्ययने साधोराचारः षड्जीवनिकायगोचरः प्रायः इत्येतदुक्तं । इह तु धर्मकाये स्वस्थे सति असौ सम्यक् पाल्यते स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च
" से संजए समक्खाए, निरवज्जाहारि जे विऊ । धम्मकायट्ठिए सम्मं, सुहजोगाण साहए ॥ | १ || " इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदं
संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगेण, भत्तपाणं गवेसए ॥६०॥
श्रीदशवैकालिकम् ।
४७