SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराहसुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥५७॥ 'सुहसायगस्से 'त्ति सुखास्वादकस्य-अभिष्वङ्गेण प्राप्तसुखोपभोक्तुः श्रमणस्य-द्रव्यप्रव्रजितस्य साताकुलस्य भाविसुखार्थं व्याक्षिप्तचितस्य निकामशायिनः-सूत्रार्थवेलामप्युल्लंघ्य शयानस्योच्छोलनाप्रधाविनः उच्छोलनयोदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथाविधस्तस्य, किमित्याह-दुर्लभा-दुष्प्रापा सुगतिः-सिद्धिपदपर्यवसाना तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः ॥५७॥ इदानीं धर्मफलं यस्य सुलभं तमाहतवोगुणपहाणस्स, उज्जुमइ खंतिसंयमरयस्स । परीसहे जिणंतस्स, सुलहा सुगई तारिसगस्स ॥५८॥ 'तवोगुण' इत्यादि, तपोगुणप्रधानस्य-षष्ठाष्टमादितपोगुण(धन)वतः ऋजुमतेर्मार्गप्रवृत्तबुद्धेः क्षान्तिसंयमरतस्य-क्षान्तिप्रधानसंयमासेविन इत्यर्थः । परीषहान्-क्षुत्पिपासादीन् जयतः-अभिभवतः सुलभा सुगतिः-उक्तलक्षणा तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः ॥५८॥ 'पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई । जेसि पिओ तवो संजमो य, खंती अ बंभचेरं च ॥(प्र० १)॥ __महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाहइच्चेयं छज्जीवणियं, सम्मद्दिट्ठी सया जए । दुल्लहं लभित्तु सामन्नं, कम्मुणा न विराहिज्जासि ॥५९॥ त्तिबेमि इति छज्जीवणियानाम चउत्थं अज्झयणं समत्तं ॥४॥ १. नैषा गाथा विवृता । ४६ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy