________________
सर्वत्रगं ज्ञानं अशेषज्ञेयविषयं दर्शनं चाशेषदृश्यविषयम् अधिगच्छत्यावरणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥५२॥
जया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ । तया लोगमलोगं च, जिणो जाणइ केवली ॥५३॥
'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा लोकं-चतुर्दशरज्जवात्मकं अलोकं चानन्तं जिनो जानाति केवली, लोकालोकौ च सर्वं नान्यतरमेवेत्यर्थः ॥५३॥
जया लोगमलोगं च, जिणो जाणइ केवली । तया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ ॥५४॥
'जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योगान् निरुद्धय मनो-योगादीन् शैलेशी प्रतिपद्यते, भवोपग्राहिकर्मीशक्षयाय ॥५४॥
जया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ । तया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ ॥५५॥
'जया' इत्यादि, यदा योगान्निरुद्धय शैलेशी प्रतिपद्यते भवोपग्राहिकर्मीशक्षयाय, तदा कर्म क्षपयित्वा भवोपग्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाः-सकल कर्मरजोविप्रमुक्तः ॥५५॥
जया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥५६॥
'जया' इत्यादि,-यदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजास्तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वतः' कर्मबीजाभावात् अनुत्पत्तिधर्मेति भावः ॥५६।। उक्तो धर्मफलाख्यः षष्ठोऽधिकारः ।
श्रीदशवैकालिकम् ।