________________
जया निविदए भोए, जे दिवे जे य माणुसे । तया चयइ संजोगं, सब्भितरबाहिरं ॥४८॥
'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति संयोग-संबन्धं, द्रव्यतो भावतः साभ्यन्तरबाह्यंक्रोधादिहिरण्यादिसम्बन्धमित्यर्थः ॥४८॥
जया चयइ संयोगं, सब्भितरबाहिरं । तया मुंडे भवित्ता णं, पव्वइए अणगारियं ॥४९॥
'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति-प्रकर्षेण व्रजत्यपवर्ग प्रत्यनगारं द्रव्यतो भावतश्चाविद्यमानागारमितिभावः ॥४९॥
जया मुंडे भवित्ता णं, पव्वइए अणगारियं । तया संवरमुक्किळं, धम्मं फासे अणुत्तरं ॥५०॥
'जया' इत्यादि, यदा मुंण्डो भूत्वा प्रव्रजत्यनगारितां तदा संवरमुक्किटुंति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥५०॥
जया संवरमुक्किटुं, धर्म फासे अणुत्तरं । तया धुणइ कम्मरयं, अबोहिकलुसंकडं ॥५१॥
‘जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोतिअनेकार्थतया पातयति कर्मरजः-कर्मैवात्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादष्टिनोपात्तमित्यर्थः ॥५१॥
जया धुणइ कम्मरयं, अबोहिकलुसंकडं । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ ॥५२॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा
श्रीदशवैकालिकम् ।