________________
'तत्र' वेश्यासामन्ते “विश्रोतसिका' तद्रूपसंदर्शनस्मरणेनापध्यानकचवरनिरोधतो ज्ञानश्रद्धा-जलोज्झनेन संयमशस्यशोषणफला चित्तविक्रियेति ॥६८॥
एष सकृच्चरणदोषो वेश्यासामन्तसङ्गत उक्तः । साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह
अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज्ज वयाणं पीला, सामन्नंमि अ संसओ ॥६९॥
'अणायणे'त्ति अनायतने-अस्थाने वेश्यासामन्तादौ चरतो गच्छतः, संसर्गेण-सम्बन्धेनाभीक्ष्णं-पुनः पुनः, किमित्याह-भवेद् व्रतानांप्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना भवति, श्रामण्ये च श्रमणभावे च द्रव्यतो रजोहरणादिसंधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः । तथा च वृद्धसंप्रदाय:- "वेसादिगयभावस्स मेहुणं पीडिज्जइ, अणुवओगेण एसणाऽरक्खणे(करणे) य हिंसा, पडुप्पायणे अन्नपुच्छण-अवलवणासच्चवयणं अणनुन्नायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दव्वसामन्ने पुण संसओ उन्निक्खमणेणत्ति" सूत्रार्थः ॥६९॥
निगमयन्नाहतम्हा एयं वियाणित्ता, दोसं दुग्गइवड्ढणं । वज्जए वेससामंतं, मुणी एगंतमस्सिए ॥७॥
'तम्हे'त्ति, यस्मादेवं तस्मादेतद्विज्ञाय दोषमनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं, मुनिरेकान्तं मोक्षमार्गमाश्रित इति ॥७०॥ । ___ आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थं ?, उच्यते-प्राधान्यख्यापनार्थं, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यं, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाहश्रीदशवैकालिकम् ।