SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आचार्य आहजयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ ॥३९॥ 'जयं चरे' इत्यादि, यतं-चरेत् सूत्रोपदेशेन ईर्यादिसमितः, यतं तिष्ठेत् समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत उपयुक्तमाकुञ्चनाद्यकरणेन, यतं स्वपेत्-समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जान:सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया मृदु कालप्राप्तं च, पापं कर्म-क्लिष्टं अकुशला-ऽनुबन्धि ज्ञानावरणादि न बध्नाति-नादत्ते, निराश्रवत्वाद्विहितानुष्ठान-परत्वादिति ॥३९॥ किं चसव्वभूयप्पभूयस्स, सम्मं भूयाइं पासओ । पिहियासवस्स दंतस्स, पावं कम्मं न बंधइ ॥४०॥ 'सव्व भूय' इत्यादि, सर्वभूतेष्वात्मभूतः-सर्वभूतात्मभूतो य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवं सम्यग्-वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य-स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य-इन्द्रियनोइन्द्रियदमेन पापं कर्म न बध्नाति, तस्य पापकर्मबन्धो न भवतीत्यर्थः ॥४०॥ ___एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवति, ततश्च सर्वात्मना दयायामेव यतितव्यं, अलं ज्ञानाभ्यासेनापि (नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह पढमं नाणं तओ दया, एवं चिइ सव्वसंजए । अन्नाणी किं काही ?, किं वा नाही छेयपावगं ? ॥४१॥ 'पढमं नाण'वित्ति, प्रथम-आदौ ज्ञानं-जीवस्वरुपसंरक्षणोपायफलविषयं 'ततः' तथाविधज्ञानसमनन्तरं दया-संयमः, तदेकान्तोश्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy