________________
पादेयतया भावतस्तत्प्रवृत्तेः एवं अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति - आस्ते, सर्वसंयतः - सर्वप्रव्रजितः, यः पुनरज्ञानीसाध्योपायफलपरिज्ञानविकलः स किं करिष्यति ?, सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्ति-निमित्ताभावात् किं वा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालोचितं, पापकं वा अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायनघुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तं - "गीतत्थो य विहारो० ॥ १॥" इत्यादि, अतो ज्ञानाभ्यासः कार्यः ॥४१॥ तथा चाह
,
सुच्चा जाणइ कल्लाणं सुच्चा जाणइ पावगं । उभयंपि जाणइ सुच्चा, जं छेयं तं समायरे ॥ ४२ ॥
'सुच्चा०' इति श्रुत्वा - आकर्ण्य तत्साधनस्वरूपविपाकं जानातिबुद्धयते कल्याणं- कल्यो- मोक्षस्तमणति-नयतीति कल्याणं-दयाख्यं संयमस्वरुपं, श्रुत्वा जानाति पापं पापकर्म्म असंयमस्वरूपं, उभयमपिसंयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यच्छेकं-निपुणं हितं कालोचितं, तत् समाचरेत्तत्कुर्यादित्यर्थः ॥४२॥
४२
उक्तमेवार्थं स्पष्टयन्नाह
जो जीवेवि न याणेइ, अजीवेवि न याणेइ । जीवाजीवे अयाणतो, कहं सो नाहीइ संयमं ? ॥ ४३ ॥
'जो जीवे' त्यादि, यो जीवानपि पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि संयमोपघातिनो मद्यहिरण्यादीन् न जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं ? तद्विषयं तद्विषयाज्ञानादिति भावः ॥ ४३ ॥ ततश्च
जो जीवेवि वियाणेड़, अजीवे वि वियाणेड़ । जीवाजीवे वियाणतो, सो हु नाहीइ संयमं ॥ ४४ ॥
श्रीदशवैकालिकम् ।