________________
एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ॥३३॥
अजयं आसमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३४॥
एवमयतमासीनो-निषण्णतयाऽनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत् ॥३४॥
अजयं सयमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३५॥
एवमयतं स्वपन्-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषं पूर्ववत् ॥३५॥
अजयं भुंजमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३६॥
एवमयतं भुञ्जानो-निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ॥३६॥
अजयं भासमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३७॥
एवमयतं भाषमाणो, गृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ॥३७॥
कहं चरे ? कहं चिढे ?, कहमासे ? कहं सए ? । कहं भुजंतो भासंतो, पावं कम्मं न बंधई ? ॥३८॥
अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि कथं-केन प्रकारेण चरेत् ?, कथं तिष्ठेत् ?, कथमासीत ?, कथं स्वपेत् ?, कथं भुञ्जानो भाषमाणः पापं कर्म न बध्नातीति ? ॥३८॥
४०
श्रीदशवैकालिकम् ।