________________
वा पतङ्ग वा कुन्थु वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा शिरसि वा वस्त्रे वा पात्रे वा रजोहरणे वा कंबले वा गोच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरुपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौन:पुन्येन सम्यक्, प्रमृज्य प्रमृज्य-पौन:पुन्येनैव सम्यक्, किमित्याह-एकान्ते-तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत्, नैनं त्रसं संघातमापादयेत्, नैनं त्रसं संघातं-परस्परगात्रसंस्पर्शपीडारुपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, एकग्रहणे तज्जातीयग्रहणादन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं स्थंडिलं, शय्या-संस्तारिका वसतिर्वा ।१५। इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ।
सांप्रतं उपदेशाख्यः पञ्चम उच्यतेअजयं चरमाणो य(उ), पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३२॥
अजयमित्यादि अयतं चरन्नयतं गच्छन्-ईर्यासमितिमुल्लंघ्य, किमित्याह-'प्राणिभूतानि हिनस्ति', प्राणिनोद्वीन्द्रियादयो भूतानिएकेन्द्रियास्तानि हिनस्ति-प्रमादानाभोगाभ्यां व्यापादयतीतिभावः, तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म, से तस्यायतचारिणो भवति, कटुकफलमिति अनुस्वारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥३२॥
अजयं चिठ्ठमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३३॥
श्रीदशवैकालिकम् ।