________________
_ 'से भिक्खू वा' इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव, ‘से बीएसु वे' त्यादि, तद्यथा-बीजेषु वा बीजप्रतिष्ठितेषु वा रुढेषु वा रुढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठितेषु वा सचितेषु वा सचितकोलप्रतिनिश्रितेषु वा, इह बीजं-शाल्यादि, तत्प्रतिष्ठितमासन(हार)-शयनादि गृह्यते, एवं सर्वत्र वेदितव्यं, रूढानि-स्फुटितबीजानि, तत्प्रतिष्ठितानि, जातानि-स्तम्बीभूतानि, हरितानि-दूर्वादीनि, छिन्नानिप्रहरणविशेषपरश्वादिभिर्वृक्षात् पृथक् स्थापितानि, आर्द्राण्यपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानि-अण्डकानि कोलो-घुणस्तत्प्रतिनिश्रितानितदुपरिवर्तीनि दार्खादीनि गृह्यन्ते, एतेषु किमित्याह-न गच्छेज्जा-न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्त्तयेत्, तत्र गमनमन्यतोऽन्यत्र, स्थानमेकत्रैव, निषीदनं-उपवेशनं, त्वग्वतनं-स्वपनं, एतत् स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न त्वग्वर्त्तयेत्न स्वापयेत्, तथान्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादिति पूर्ववत् ।१४।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा नो णं संघायमावज्जेज्जा । सू० १५ । से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववत्, स कीटं
श्रीदशवैकालिकम् ।
३८