________________
पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १३ । ____से भिक्खू वा' इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव 'से सिएण वे' त्यादि, तद्यथा-सितेन वा विधुवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं-चामरं, विधुवनं-व्यजनं, तालवृन्तं तदेव मध्यग्रहणच्छिद्रं द्विपुटं, पत्र-पद्मिनीपत्रादि, शाखा-वृक्षडालं शाखाभङ्ग-तदेकदेशः, पेहुणं-मयूरादिपिच्छं, पेहुणहस्तकः-तत्समूहः, चेलं-वस्त्रं, चेलकर्णः-तदेकदेशः, हस्तमुखे-प्रतीते, एभिः किमित्याह-आत्मनो वा कायं-स्वदेहमित्यर्थः, बाह्यं वा पुद्गलंउष्णौदनादि, एतत् किमित्याह- 'न फुमेज्जा' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्करणं-मुखेन धमनं, व्यजनं चमरादिना वायुकरणम्, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेत् न व्याजयेत्, तथाऽन्यं स्वत फुत्कुर्वन्तं वा व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।१३।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइटेसु वा रूढेसु वा रूढपइटेसु वा जाएसु वा जायपइडेसु वा हरिएसु वा हरियपइडेसु वा छिन्नेसु वा छिन्नपइडेसु वा सच्चित्तेसु वा सच्चित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिट्ठिज्जा न निसीइज्जा न तुयट्टिज्जा अन्नं न गच्छाविज्जा न चिट्ठाविज्जा न निसीयाविज्जा न तुयट्टाविज्जा अन्नं गच्छंतं वा चिटुंतं वा निसीयतं वा तुयस॒तं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १४ । श्रीदशवैकालिकम् ।