SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्राणाइन्द्रियादय:, तेषामतिपातः प्राणातिपात:- जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्माद्विरमणं नाम सम्यग्ज्ञान श्रद्धानपूर्वकं सर्वथा निवर्तनं भगवतोक्तमिति वाक्यशेषः यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामी 'ति सर्व-निरवशेषं, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति-प्रतिशब्दः प्रतिषेधे, आङाभिमुख्ये, ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति अथवा प्रत्याचक्षे - संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थापनार्ह इत्येतदाह-उक्तं च" पढिए० ॥१॥" इत्यादि, तदेतद्विशेषेणाभिधित्सुराह से सुहुमं वेत्यादि, सशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा, अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य कायेन व्यापादनासम्भवात्, बादरोऽपि स्थूरः स चैकैको द्विधा त्रसः स्थावरश्च सूक्ष्मत्रसः - कुन्ध्वादि:, स्थावरोवनस्पत्यादिः, बादरस्त्रसो गवादिः, स्थावरः पृथिव्यादिः, एतान्, 'नेव सयं पाणे अतिवाएज्ज 'ति नैव स्वयं प्राणिनो व्यतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनो ऽतिपातयतोऽप्यन्यान्न समनुजानामि यावज्जीवमित्यादि पूर्ववत्, व्रतप्रतिपत्ति निगमयन्नाह - प्रथमे भदन्त ! महाव्रते उप- सामीप्येन तत्परिणामापत्या स्थितः, इत आरभ्य सर्व्वस्मात्प्राणातिपाताद्विरमणमिति, भदन्त ! अनेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं, कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवति, एतदेवाह सर्व्वस्मात्प्राणातिपाताद्विरमणमिति, महाव्रते उपस्थितोऽस्मि सर्वस्मात्प्राणातिपाताद्विरमणमिति |३| २८ , उक्तं च प्रथमं महाव्रतं, इदानीं द्वितीयमाह अहावरे दोच्चे भंते ! महव्वए मुसावायाओ वेरमणं, सव्वं श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy