________________
दण्डस्तस्य संबन्धिनमतीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणाद् अनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणं, भदन्त ! भवान्त ! भयान्त ! इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थं, प्रतिक्रमामीति भूताद्दण्डान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामि गरिहामीति आत्मसाक्षिकी निन्दा परसाक्षिकी गर्हा-जुगुप्सोच्यते, आत्मानमतीतदण्डकारिणमश्लाघ्यं व्युत्सृजामीति, विविधार्थो विशेषार्थो वा विशब्दः, उच्छब्दो भृशार्थः सृजामि-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, आह-यद्येवमतीतदण्डप्रति-क्रमणमात्रमस्यैदम्पर्यं न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं, न करोमीत्यादिना तदुभयसिद्धेरिति ।२। अयं चात्मप्रतिप्रत्त्यर्हो दण्डः, सामान्यविशेषरुप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरुपतया अङ्गीकर्तव्य इति महाव्रतान्याह
पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा, तसं वा थावरं वा, नेव सयं पाणे अइवाएज्जा नेवऽन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
पढमे भंते । महव्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं १ । सू०३ ।
पढमे भंते ! इति, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथम तस्मिन् प्रथमे भदन्तेति गुरोरामन्त्रणं, महाव्रत इति, महच्च तद्वतं च महाव्रतं, महत्त्वमणुव्रतापेक्षया महाव्रते प्राणातिपाताद्विरमणं इति, श्रीदशवैकालिकम् ।
२७