________________
'उक्तः प्रथमो जीवाभिगमाख्योऽर्थाधिकारः । अत्र द्वितीयोऽजीवाभिगमाख्योऽर्थाधिकारो बृहट्टीकातो ज्ञेयः । सांप्रतं चारित्रधर्म उच्यते
इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० २ । _ 'एतेषां षण्णां जीवनिकायाना'मिति, "सुपांसुपो भवन्ती"ति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु अनन्तरोदितस्वरूपेषु नैव 'स्वयं' आत्मना ‘दण्डं' सङ्घट्टनपरितापनादिलक्षणं, समारभेत-प्रवर्तयेत्, तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तलक्षणं समारंभयेत्-कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो न समनुजानीयात्-नानुमोदयेदिति विधायकं भगवद्वचनं, यतश्चैवमतो यावज्जीवमित्यादि यावद्व्युत्सृजामीत्येवमिदं सम्यक् प्रतिपद्यतेत्यैदम्पर्य, पदार्थस्तु जीवनं जीवो, यावज्जीवं
आप्राणोपरमादित्यर्थः, किमित्याह-त्रिविधं त्रिविधेनेति तिस्रो विधा:विधानानि कृतादिरूपाणि यस्येति त्रिविधो, दण्ड इति गम्यते, तं त्रिविधेन करणेनेति, एतदेवोपन्यस्यति, मनसा वचसा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह, तत्त्वतः न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमपि अन्यं न समनुजानामीति, तस्य भदन्त ! प्रतिक्रमामि इति तस्येत्यधिकृतो दण्डः, योऽसौ त्रिकालविषयो
१. 'जीवाजीवाहिगमो चरित्तधम्मो तहेव "जयणा य । "उवएसो ६धम्मफलं छज्जीवणियाइ ॥२१६॥[ नियुक्तिगाथा]
श्रीदशवैकालिकम् ।