________________
तु वृत्तिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति । ___आह-एवमपि द्वींद्रियादीनामत्रसत्वप्रसंगः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविधज्ञानाभावात् ?, नैतदेवं, हेतुसंज्ञयाऽवगतेर्बुद्धिपूर्वकमेव छायात उष्णमुष्णाद्वा छायां प्रति तेषां अभिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति ।
अधिकृतत्रसभेदानाह-जे य इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, "एकग्रहणे तज्जातीयग्रहण" मिति द्वीन्दियाःशंखादयोऽपि गृह्यन्ते, पतङ्गाः-शलभाः, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्वे एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रियाः-कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः, आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थं ?, उच्यते, "विचित्रा सूत्रगतिरतन्त्रः क्रम" इति ज्ञापनार्थ, सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारकारत्नप्रभानारकादि-भेदभिन्नाः, सर्वे मनुजाः-कर्मभूमिजादयः, सर्वे देवाभवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एव एते त्रसाः, न त्वेकेन्द्रिया इव त्रसा: स्थावराश्चेति, उक्तं च"पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायु द्वीन्द्रियादयश्च त्रसाः" (तत्त्वा० अ० २, सू. १३-१४) इति, सर्वे प्राणिनः परमधर्माण इति, सर्वे एते प्राणिनो-द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति, अत्र परमंसुखं तद्धर्माणः सुखधर्माणः, सुखाभिलाषिण इत्यर्थः, यतश्चैवमतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेतियोगः । षष्ठं जीवनिकायं निगमयन्नाह-एष खलु अनन्तरोदितः कीटादिः, 'षष्ठो जीवनिकायः' पृथिव्यादिपञ्चकायापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते-प्रकर्षणोच्यते सर्वैरेव तीर्थकरगणधरैरिति ।१॥ श्रीदशवैकालिकम् ।