________________
चानेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् ॥
इदानीं त्रसाधिकार एतदेवाह-'से जे पुण इमे' सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, "अथ प्रकियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि" ति वचनात्, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहव एकैकस्यां जातौ त्रसाः प्राणिनः, त्रस्यन्तीति त्रसाः, प्राणा-उच्छ्वासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायस्त्रसकायः प्रोच्यत इति योगः, तत्राण्डाज्जाता अण्डजाः-पक्षिगृहिकोलिका(किला)दयः, पोता एव जायन्ते पोतजाः, ते च हस्तिवल्गुलीचर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा:- गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजा:तक्रारनालदधितीमनादिषु पायु-कृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजाः-मत्कुणयूकादयः, संमूर्च्छनाज्जाताः संमूर्च्छनजाः-शलभ-पिपीलिका-मक्षिकाशालूरा(का)दयः, उद्भेदाज्जन्म येषां ते उद्भेदजाः-पतङ्गखञ्ज-रीटपारिप्लवादयः, उपपाताज्जाताः उपपाते भवा उपपातजाः, उपपातेन वा भवा औपपातिका-देवा नारकाश्च ।
एतेषामेव लक्षणमाह-येषां केषाश्चित् सामान्येनैव प्राणिनांजीवानामभिक्रान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रमणं प्रतिकान्तं-प्रज्ञापकात् प्रतीपं क्रमणमिति भावः, सङ्कचनं सङ्कुचितं-गात्रसङ्कोचकरणं, प्रसारणं प्रसारितंगात्रविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तमितश्चेतश्च गमनं, त्रसनं त्रस्तं-दुःखोद्वेजनं, पलायनं पलायितं-कुतश्चिन्नाशनं, तथा आगते:कुतश्चिज्जातस्य गतेश्च-कुतश्चित् क्वचिदेव, विन्नाया इति ज्ञातारः ।
आहअभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्भेद इति, किमर्थं भेदेनाभिधानं ?, उच्यते, विज्ञानविशेषख्यापनार्थं, एतदुक्तं भवति-य एवं जानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न
श्रीदशवैकालिकम् ।