________________
ना
. अथ क्षुल्लिकाचारकथा नाम तृतीयं अध्ययनम् ।
व्याख्यातं श्रामण्यपूर्विकाख्यमध्ययनं, इदानीं क्षुल्लिकाचारकथाख्यातमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तं, इह तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तं च
"तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव हि जिनोदितः ॥१॥" इत्यनेन सम्बन्धेनायातमितिसंजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं, निग्गंथाण महेसिणं ॥१७॥
संयमे-उक्तस्वरूपे शोभनेन प्रकारेणागमनीत्या स्थित आत्मा येषां ते तथा तेषां, त एव विशेष्यन्ते-विविधैः अनेकैः प्रकारैः प्रकर्षणभावसारं मुक्तास्तेषां, त एव विशेष्यन्ते-रक्षन्ति आत्मानं परं उभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः स्वतीर्णत्वात्, उभयं स्थविरा इति, तेषामिदं वक्ष्यमाणलक्षणमनाचरितं-अकल्प्यं केषामित्याह-निर्ग्रथानां-साधूनामिति, अभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो-यतय इत्यर्थः, तेषां इह च पूर्वपूर्वभाव एवोत्तरोत्तरभावो नियमतो हेतुहेतुमद्भावेन वेदितव्यो, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मत्व-निबन्धनत्वा-द्विप्रमुक्तेः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावं वर्णयन्ति, यत एव महर्षयः, अत एव निर्ग्रन्थाः, एवं शेषेष्वपि भावनीयमिति सूत्रार्थः ॥१७॥
साम्प्रतं यदनाचरितं तदाहउद्देसियं कीयगडं, नियागमभिहडाणि य ।
राइभत्ते सिणाणे य, गंधमल्ले अ वीयणे ॥१८॥ श्रीदशवैकालिकम् ।