________________
प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनं ?-सुभाषितं-संवेगनिबन्धनं, अंकुशेन यथा नागो-हस्ती एवं धर्मे सम्प्रतिपादितो-धर्मे स्थापित इत्यर्थः ।
एवं करंति संबुद्धा, पंडिया पविअक्खणा । विणिअति भोगेसु, जहा से पुरिसुत्तमो ॥१६॥ त्ति बेमि । सामन्नपुस्वियं नामऽज्झयणं समत्तं २ ॥
'एवं करंती 'ति एवं कुर्वते संबुद्धा:-बुद्धिमन्तो बुद्धाः, सम्यग्दर्शनसाहचर्येण दर्शनैकीभावेन वा बुद्धाः संबुद्धा-विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः प्रविवक्षया सूत्रपण्डिताः सम्यग्ज्ञानवन्तः प्रविचक्षणाश्चरणपरिणामवन्तः, अन्ये तु व्याचक्षते संबुद्धाः सामान्येन बुद्धिमन्तः, पण्डिता-वान्तभोगासेवनदोषज्ञाः, प्रविचक्षणा-अवद्यभीरवः, किं कुर्वन्ति ?-विनिवर्तन्ते भोगेभ्यो विविध-अनेकैः प्रकारैरनादि-भवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन निवर्त्तन्ते भोगेभ्यो-विषयेभ्यो, यथा क इत्यत्राह-यथा असौ पुरुषोत्तमो रथनेमिः । आह-कथं तस्य पुरुषोत्तमत्वं ? यो हि प्रव्रजितोऽपि विषयाभिलाषीति ?, उच्यते, तथाऽभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाहदशवैकालिकं नियतश्रुतमेव, यत उक्तं-"नायज्झयणाहरणा इसि भासियमो पइन्नगसुया य । एए होंति अनियया निययं पुण सेसमुस्सण्णं ॥१॥" तत् कथमभिनवोत्पन्नमिदमुदाहरणं युज्यत इति ?, उच्यते, एवंभूतार्थस्यैव नियतश्रुतभावाद् उस्सन्नग्रहणाच्चादोषः, प्रायो नियतं, न तु सर्वथा नियतमेवेत्यर्थः ॥१६॥
ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ॥ दशवैकालिकश्रुतस्कंधे द्वितीयमध्ययनं टिप्पितमिति । 卐卐卐
श्रीदशवैकालिकम् ।