________________
सामिणो वंदणयाए गया, वंदित्ता पडिस्सयमागच्छंतीए अंतरा वरिसिएण तिता अयाणंती तमेव गुहमणुपविट्ठा, वत्थाणि य पविसारियाणि, ताहे तीए अंगपच्चंगाणि दिट्ठाणि, सो रहनेमी तीए अज्झोववन्नो, दिवो य णाए, इंगियागारकुसलाए णाओ असोहणो भावो एयस्स, ततो सा तमिदमवोचत्
अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥१३॥ 'अहं चेति अहं च भोगराज्ञः-उग्रसेनस्य दुहितेतिगम्यते, त्वं च असि-भवसि अंधकवृष्णे:-समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, जह न सप्पतुल्लाइं होमोत्ति भणियं होइ, अत: संयमं निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुब्विति ॥१३॥ किं च
जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविद्धव्व हडो, अट्ठिअप्पा भविस्ससि ॥१४॥
'जइ त मिति, यदि त्वं करिष्यसि भावं-अभिप्रायं प्रार्थनमित्यर्थः, क्व ?-या या द्रक्ष्यसि नारी:-स्त्रियः, तासु एताः शोभनाः शोभनतराः सेवामि-कामयामीत्येवंभूतं भावं यदि करिष्यसि, ततो वायुनाऽऽविद्ध इव हतो-वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषोऽस्थितात्मा भविष्यसि, सकलदुःख-क्षयनिबन्धनेषु संयमगुणेष्वबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसि
तीसे सो वयणं सोच्चा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥१५॥
'तीसे सो वयण मिति तस्या-राजीमत्या असौ-रथनेमिर्वचनमनन्तरोदितं श्रुत्वा-आकर्ण्य किविशिष्टायास्तस्याः ? संयतायाःश्रीदशवैकालिकम् ।