________________
तत्र गन्धना नाम डसिए मंतेहिं आयड्डिया तं विसं वणमुहाओ आवियन्ति, अगन्धणा उण अवि मरणमज्झवसन्ति न य वंतमावियंति ।
उपसंहारस्त्वेवं भावनीयः-यदि तावत् तिर्यञ्चोऽप्यभि-मानमात्राद् अपि जीवितं परित्यजन्ति, न च वान्तं भुञ्जते, तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तानपि भोक्ष्य इति ॥ अस्मिन्नेवार्थे द्वितीयमुदाहरणं (दृ० २)___जया किल अरिट्ठनेमी पव्वइओ, तया रहनेमी तस्स जेट्ठभाऊओ रायमई उवयरइ, जइ नाम एसा ममं इच्छिज्जा, सावि भयवई निम्विन्नकामभोगा, नायं च तीए-जहा एसो मज्झं अज्झोववन्नो, अन्नया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण तीए वंतं, भणियं च-एयं पेज्जं पियाहि, तेण भणियं,-कहं वंतं पिज्जइ ? तीए भणियं-जइ न पिज्जइ तओ अहंपि अरिट्ठनेमिसामिणा वंता कहं पिबिउमिच्छसि ?, तथा ह्यधिकृतार्थ-संवाद्येवाह
धिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥१२॥
"धिरत्थु' इत्यादि, तत्र राजीमती किलैवमुक्तवती-'धिगस्तु' धिक्शब्दः कुत्सायां, अस्तु-भवतु ते-तव पौरुषस्येति गम्यते, हे यशःकामिन्-कीर्त्यभिलाषिन् !, सासूयं क्षत्रियामन्त्रणं, अथवा अकारप्रश्लेषादयशःकामिन् !, धिगस्तु-भवतु तव, यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोर्वान्तमिच्छस्यापातुं-परित्यक्तां भगवताऽभिलषसि भोक्तुमिति, अतः अतिक्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवेत्' शोभनतरं तव मरणं, न पुनरिदं अकार्यासेवनमिति । ततो धम्मो से कहिओ, सम्बुद्धो, पव्वइओ य, रायमईवि तं बोहिऊण पव्वइया ।
अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊण सामिसगासमागच्छंतो वासवद्दलएण अब्भाहओ एगं गुहं पविट्ठो, रायमई वि
श्रीदशवैकालिकम् ।