________________
आयावयाहि चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज्ज रागं,
एवं सुही होहिसि संपराए ॥१०॥ 'आयावयाही 'ति संयमगेहान्मनसोऽनिर्गमार्थमातापय- आतापनां कुरु, एकग्रहणे तज्जातीयग्रहणमिति न्यायात् यथानुरूपमूनोदरतादेरपि विधि:, अनेनात्मसमुत्थदोषपरिहारमाह तथा त्यज सौकुमार्यं परित्यज सुकुमारत्वं, अनेन तूभयसमुत्थदोषपरिहारमाह, तथाहि - सौकुमार्यात् कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् क्रम-उल्लंघय, यतस्तैः, क्रान्तैः क्रान्तमेव दुखं भवतीति शेषः, खुशब्दोऽवधारणे, कामनिबन्धनत्वाद् दुःखस्य, अधुना अनन्तरं कामक्रमणविधिमाह-छिंद्धि द्वेषं - व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना एवं कृते फलमाह-एवं-अनेन प्रकारेण वर्तमानः किं- 'सुखमस्यास्तीति सुखी भविष्यसि, क्व ?, संपराये- संसारे यावदपवर्गं न प्राप्स्यसि तावत् सुखी भविष्यसि संपराये परीषहोपसर्गसङ्ग्राम इत्यन्यः ॥१०॥ किंचसंयमगेहान्मनस एवानिर्गमार्थमिदं चिन्तयेत् -
पक्खंदे जलियं जोई, धूमकेउं दुरासयं । नेच्छंति वंतयं भोक्तुं कुले जाया अगंधणे ॥११॥
'पक्खंदे 'त्यादि, प्रस्कन्दन्ति - अध्यवस्यन्ति ज्वलितं ज्वालामालाकुलं, न मुर्म्मरादिरूपं, कं ? ज्योतिषं - अग्नि धूमकेतुं धूमध्वजं नोल्कादिरूपं, दुराशयं-दुःखेनासाद्यते - अभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः चशब्दलोपात्, 'न चेच्छन्ति वान्तं भोक्तुं ' परित्यक्तमत्तुं विषमिति गम्यते, के ?, नागा इति गम्यते, एवं किंविशिष्टा: ?, कुले जाताः समुत्पन्ना अगन्धने, नामानां हि भेदद्वयं
गन्धना अगन्धनाश्च श्रीदशवैकालिकम् ।
७