________________
इदं सूत्रमुद्घोषयामास - " न सा महं नोऽवि अहंपि तीसे" तेन च पठता समचिन्ति यथा सा मम अहमपि तस्याः, यतोऽसावत्यन्तं ममानुरक्ता, ततः कथमहं तां प्राणात्ययेऽपि परित्यजामीति सम्प्रधार्य चेतसि गुरूणां किंवदतीमात्मीयामनिवेद्य गृहीतपात्राद्युपकरण एव गतस्तं ग्रामं यत्रासावास्ते, प्राप्तस्य तं ग्रामं जलानयनाय बहिर्ग्रामवाप्यामत्रान्तरे तस्यासौ प्रियतमा समायाता, विलोकितोऽसौ तया, तत्र दृष्टमात्रः प्रत्यभिज्ञातः, न च तेन सा प्रत्यभिज्ञाता, कृते च वन्दने परिपृष्टाऽसौ, यथा - भद्रे ! जानासि त्वममुकस्य वणिजः सुतां सा च तस्मिन् प्रव्रजिते समाकणितधर्म्मा सञ्जातपरमवैराग्या संयोगानां दुःखबहुलतां परिकल्पयन्ती प्रव्रजितुकामा परिचिन्तितवती - यादृशान्यस्य चिह्नानि समवलोक्यन्ते तादृशो [ शं? ] विषयोन्मुखमस्य चेतः समभिलक्ष्यते, ततश्च विषयासक्तयोरावयोरवश्यं भविष्यति दुर्गतिपातः, तदयमात्मा च, ततो मया परिरक्षणीय इति सम्प्रधार्य तं प्रति जगाद - भो साधो ! सा मातापितृभिरन्यस्मै दत्ता, तत् श्रुत्वाऽसौ समचिन्तयत्, यथा- सत्यमहं भगवद्भिः साधुभिः पाठितो - " न सा महं नोऽवि अहंपि तीसे," इति परिभावयन् परमसंवेगं गतः, तां जगाद - भद्रे ! तस्याः कारणेन जन्मान्तरकोटिभिरपि दुरापं भगवता - माचार्याणां पादपद्मं विहाय विषयाभिलाषी समागतोऽहं तत्पार्श्वे, दुष्टं चेष्टितमत इतः स्थानादेव व्रजाम्यहं गुरूणामन्तिके, ततः सा तं प्रत्यवादीत् - मुने ! शोभनमुक्तवानसि, यतः असारा विषयाभिलाषाः, करिकलभश्रवणमिव चञ्चलमायुः, प्रतिक्षणध्वंसी देहः, अकृतधर्म्माणां ध्रुवो नरकपात इत्यादि तमनुशिष्य, कथयित्वा चात्मानं, सञ्जातवैराग्य तं प्रेषयामास गुरूणामन्तिके, स्थिरीभूतश्च कृतवान् प्रव्रज्यां, एवमात्मा सन्धारणीयो यथा तेनेति ॥ ९ ॥
एवं तावदान्तरो मनोनिग्रहविधिरुक्तो, न चायं बाह्यमन्तरेण कर्तुं शक्यते, अतस्तद्विधानार्थमाह
श्रीदशवैकालिकम् ।