________________
'जे य कंते पिए' इति-य एव कान्तान्-कमनीयान् शोभनानित्यर्थः, प्रियान्-इष्टान्, भोगान्-शब्दादिविषयान्, लब्धान्प्राप्तान्, उपनतानितियावत्, 'विपिट्टिकुव्वइ 'त्ति विविध-अनेकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धेन बद्धः प्रोषितो वा, किन्तु स्वाधीनं-अपरायत्तः, स्वाधीनानेव परित्यजति भोगान् पुनस्त्याग-ग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थं, भोगग्रहणं तु सम्पूर्णभोगग्रहणार्थं त्यक्तोपनतभोगसंसूचनार्थं वा, ततश्च ईदृशः, हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवद्, इति ॥८॥ समाइ पेहाइ परिव्वयंतो,
सिया मणो निस्सरई बहिद्धा । न सा महं नो वि अहंपि तीसे,
इच्चेव ताओ विणइज्ज रागं ॥९॥ 'समाइ पेहाइ' इति, तस्यैवं त्यागिनः समया-आत्मपरतुल्यतया प्रेक्षते अनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्तात् व्रजतोगुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, स्यात्-कदाचिदचिन्त्यत्वात् कर्मगतेर्मनो निःसरति बहिर्धा भुक्तभोगिनः पूर्वक्रीडितस्मरणादिना अभुक्तभोगिनश्च कुतूहलादिना मन:-अन्तःकरणं निस्सरति-निर्गच्छति बहिर्धा-संयमयोगाद्वहिरित्यर्थः, तदा प्रशस्ताध्यवसायेनासौ अशुभसङ्कल्पः परिस्थगनीयः, केनालम्बनेनेति ? यस्यां रागः सम्पन्नस्तां प्रति चिन्तनीयं 'न सा मम, नाप्यहं तस्याः' पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद् व्यपनयेत रागं, तत्त्वदर्शिनो हि स निवर्तत एवेति ॥ अत्रोदाहरणं (दृ० १)
यथैको वणिक्पुत्रः सञ्जातपरमवैराग्यो विचिन्त्य संसारासारतां नवे वयसि वर्तमानो विहाय यौवनश्रिया समलङ्कतां स्त्रियं प्रव्रज्यामग्रहीत् । स च कैश्चिद्वासरैः समतिक्रान्तैः विधिना विहितसूत्रप्रणिधान श्रीदशवैकालिकम् ।