________________
कहन्नु कुज्जा सामन्नं, जो कामे न निवारए । पए पए विसीयंतो, संकप्पस्स वसं गओ ॥६॥
'कहण्णु' इति कथं नु कुर्यात् श्रामण्यं-श्रमणभावं यः कामान् न निवारयति, 'कथं' केन प्रकारेण, नुः क्षेपे, यथा कथं नु स राजा ? यो न रक्षति प्रजां, कथं नु स वैयाकरणो योऽपशब्दं प्रयुङ्क्ते ?, एवं कथं नु कुर्यात् श्रामण्यं-श्रमण-भावं यः कामान् न निवारयति ?, कारणमाह-'पदे पदे विषीदन् सङ्कल्पस्य वशङ्गतः' कामानिवारणेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात् सङ्कल्पस्य वशं गतत्वाद्, अप्रशस्ताध्यवसाय: सङ्कल्प इति सूत्रसमासार्थ इति ॥६॥
न केवलमयमधिकृतसूत्रोक्त एव श्रामण्याकरणाद् अश्रमणः, किन्त्वा-जीविकादिभयप्रवजित: सङ्क्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव-अयोग्य एव, कथं ?, यत आह सूत्रकारः
वत्थगंधमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥७॥
'वत्थगंधमलंकारं' इति वस्त्रगन्धमलङ्काराणि, तत्र वस्त्राणिचीनांशुकादीनि, गन्धा:-कोष्ठपुटादयः, अलङ्कारा:-कटकादयः, अनुस्वारोऽलाक्षणिकः स्त्रियोऽनेकप्रकाराः, शयनानि-पर्यङ्कादीनि, चशब्दादासनादिपरिग्रहः, एतानि वस्त्रादीनि किं ? अच्छन्दाः-अस्ववशा ये केचन 'न भुञ्जते' न सेवन्ते, कि बहुवचनोद्देशेऽप्येकवचननिर्देशः ?, विचित्रत्वात् सूत्रगतेविपर्ययश्च भवत्येवेतिकृत्वा आह-नासौ त्यागीत्युच्यते, सुबन्धुवत् (दश० चू० पृ० ८१) नासौ श्रमण इति ॥७॥
यथा चोच्यते तथाऽभिधातुकाम आहजे य कंते पिए भोए, लद्धे विपिट्टिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चई ॥८॥
श्रीदशवैकालिकम् ।