________________
महुगारसमा बुद्धा, जे भवंति अणिस्सिया । नाणापिंडरया दंता, तेण वुच्चंति साहुणो ॥५॥ त्ति बेमि । पढमं दुमपुष्फियज्झयणं समत्तं ॥१॥
यतश्चैवमतो-'मधुकरसमा' इति मधुकरसमा-भ्रमरतुल्याः, बुध्यन्ते स्म 'बुद्धा'-अवगततत्त्वाः, एवंभूता 'ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, 'नानापिंडरता' नानाअनेकप्रकाराभिग्रहविशेषात् प्रतिगृहमल्पाल्पग्रहणाच्च पिण्ड:-आहारादिपिण्डः, नाना चासौ पिण्डश्च अन्तप्रान्तादिर्वा तस्मिन् रताः-अनुद्वेगवन्तः, 'दांता' इन्द्रियदमेन दान्ता इति पदेऽसौ वाक्यशेषो दृष्टव्यः, ईर्यादिसमिताश्च, ततश्चार्थोऽयं यथा भ्रमरोपमया एषणासमितौ यतन्ते, तथा ईर्यादिष्वपि त्रसस्थावरभूतहितं यतन्ते, साभाविकं-पारमार्थिकं, ते च साधव इति, पाठान्तरं वा, 'तेनोच्यन्ते साधव' इति येन कारणेन मधुकरसमाना उक्तन्यायेन भ्रमरतुल्या: ॥५॥
इतिः परिसमाप्तौ, ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ॥
द्रुमपुष्पिकाध्ययनं समाप्तम् १ ॥
卐ty अथ श्रामण्यपूर्विका नाम द्वितीयं अध्ययनम् ।
व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वि-काख्यमारभ्यते, अस्यैवमभिसम्बन्धः इहानन्तराध्ययने धर्म-प्रशंसोक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभि-नवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, अनेन सम्बन्धेनायातमिदमत्राध्ययनम्
श्रीदशवैकालिकम् ।