________________
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । न य पुष्पं किलामेइ, सो य पीणेइ अप्पयं ॥२॥
'जहा दुमस्से ति 'यथा'-येन प्रकारेण द्रुमस्य पुष्पेषु भ्रमरःचतुरिन्द्रियः, किं ?-आपिबति, कं ?, रसं मकरंदमिति 'न च' नैव पुष्पं 'क्लामयति' पीडयति, ‘स च' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति ॥२॥
एमेए समणा मुत्ता, जे लोए संति साहुणो । विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥३॥
'एमए' इत्यादि, ‘एवं' अनेनैव प्रकारेण एते ये परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः तपस्यन्तीत्यर्थः, ते च तापसादयो भवंत्यत आह-'मुक्ताः ' सबाह्याऽभ्यन्तरेण ग्रन्थेन ये लोके अर्धतृतीयद्वीपसमुद्रपरिमाणे संति-विद्यन्ते साधयन्तीति साधवः, किं साधयन्ति ?ज्ञानादीनीति गम्यते, विहंगमा इव-भमरा इव पुष्पेषु, दानभक्तैषणासु रताः, दानग्रहणाद् दत्तं गृह्णन्ति, नादत्तं, भक्तग्रहणात् तदपि प्रासुकं, नाधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु रताःसक्ताः इति ॥३॥ कश्चिदाह
वयं च वित्तिं लब्भामो, न य कोइ उवहम्मइ । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥ .
'दाणभत्तेसणे रया' इत्युक्तं, यत एव चैवमत एव लोको भक्त्याऽऽकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, तस्य ग्रहणे सत्त्वोपरोधः अग्रहणे च स्ववृत्त्यलाभ इति, अत्रोच्यते-'वयं च वित्ति'मिति वयं च वृत्तिं 'लप्स्यामः'-प्राप्स्यामस्तथा यथा न कश्चिदुपहन्यते, तथाहि-एते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिवर्तितेषु आहारादिषु 'रीयंते' गच्छन्ति-वर्तन्ते इति, 'पुष्पेषु भ्रमरा यथा' इति ॥४॥
श्रीदशवैकालिकम् ।