________________
॥ अर्हम् नमः ॥
भगवच्छय्यंभवश्रुतकेवलिनियूढं श्रीमत्सुमतिसाधुसूरिणा भवविरहाङ्कितबृहट्टीकोद्धृतवृत्त्युपेतं
श्रीदशवैकालिकम् ।
'
'
ऐं नमः ॥
जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिंतामणिर्वीरः ॥१॥
इहार्थतस्त (तोऽर्ह)-त्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसातिकटुकदुःखसन्तानविनाशहेतोः दशवैकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते, तत्र प्रस्तुतार्थप्रतिपादनार्थमेव धर्मस्य नमस्कारद्वारेणाशेषविघ्नविनायकोपशांतये भगवान् शय्यंभवाचार्यो भाव-मंगलमाह
धम्मो मंगलमुक्किट्ठ, अहिंसा संजमो तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥१॥
'धम्मो मंगल मित्यादि, मङ्गयते हितमनेनेति मङ्गलं, 'उत्कृष्टं' प्रधानं, न हिंसा अहिंसा-प्राणातिपातविरतिरित्यर्थः, दुर्गतिप्रसृतान् जीवान् धारयतीति धर्मः, स मङ्गलं, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति 'तपः' अनशनादि, 'देवाऽवि तं नमसंति'ति (देवा अपि तं नमस्यन्ति) यस्य किं ?-धर्मे 'सदा' सर्वकालं 'मनः' अन्तःकरणमिति ॥१॥
श्रीदशवैकालिकम् ।