SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ च स्यादेते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधतिआरनालादिष्वपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोक-शास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अति-प्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गात् इत्यलं प्रसङ्गेन । अक्षरगमनिकामात्रप्रक्रमात्, तथा अमत्सरी च-न परसंपवेषी च स्यात्, तथा अभीक्ष्णं-पुनः पुनः पुष्टकारणाभावे निर्विकृतिकश्च-निर्गतविकृतिपरिभोगश्च भवेद्, अनेन परिभोगोचितविकृतीनामप्य-कारणे प्रतिषेधमाह । तथाऽभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये । किमित्याह-कायोत्सर्गकारी भवेद् ईर्यापथप्रतिक्रमणमकृत्वा न किञ्चिदन्यत्कुर्यात्, तदशुद्धतापत्तेरितिभावः । तथा स्वाध्याययोगे-वाचनाद्युपचारव्यापार आचाम्लादौ प्रयतोऽतिशययत्नवान्भवेत्तथैव तस्य सफलत्वात्, विपर्यये उन्मादादिदोषप्रसङ्गादिति ॥५०६।। ण पडिन्नविज्जा सयणासणाई, ... सिज्जं निसिज्जं तह भत्तपाणं । . गामे कुले वा नगरे व देसे, ममत्तभावं न कहिपि कुज्जा ॥५०७॥ किंच-न पडिण्णवेज्जत्ति, न प्रतिज्ञापयेन्मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद् गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भक्तपानमिति, तत्र शयनं-संस्तारकादि, आसनं-पीठकादि, शय्या-वसतिः, निषद्यास्वाध्यायादिभूमिः, तथा-तेन प्रकारेण तत्कालावस्थानोचितेन भक्तपानंखण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात्, सर्वत्र एतन्निषेधमाह-ग्रामे-शालिग्रामादौ, कुले वा-श्रावककुलादौ, नगरे-साकेतादौ, देशे वा-मध्यदेशादौ ममत्वभावं ममेदमिति, स्नेहमोहं न क्वचिदुपश्रीदशवैकालिकम् । २१५
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy