________________
करणादिष्वपि कुर्यात् तन्मूलत्वाद् दुःखादीनामिति ॥ ५०७ ॥
उपदेशाधिकार एवाह
गिहिणो वेआवडिअं न कुज्जा,
अभिवायणवंदणपूअणं वा ।
असंकिलिट्टेहिं समं वसिज्जा,
मुणी चरित्तस्स जओ न हाणी ॥५०८ ॥
गिहिणोत्ति, गृहिणो- गृहस्थस्य वैयावृत्त्यं - गृहिभावोपकाराय तत्कर्मस्वाऽऽत्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभयाश्रेयःसमायोजनदोषात्, तथाऽभिवादनं-वाङ्नमस्काररूपं, वन्दनं- कायप्रणामलक्षणं, पूजनं चवस्त्रादिभिः समभ्यर्चनं वा, गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः-गृहिवैयावृत्यादिकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिश्चारित्रस्य मूलगुणादिलक्षणस्य यतो- येभ्यः साधुभ्यः सकाशान्न हानि:, संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति ॥ ५०८ ॥
“असंक्लिष्टैः समं वसेदि" त्युक्तमत्र विशेषमाह
ण या लभेज्जा निउणं सहायं,
२१६
गुणाहिअं वा गुणओ समं वा ।
इक्कोऽवि पावाई विवज्जयंतो,
विहरिज्ज कामेसु असज्जमाणो ॥ ५०९ ॥
ण येति, कालदोषान्न यदि लभेत-न यदि कथञ्चित्प्राप्नुयान्निपुणंसंयमानुष्ठानकुशलं सहायं - परलोकसाधनद्वितीयं, किंविशिष्टमित्याहगुणाधिकं वा - ज्ञानादिगुणोत्कटं वा, गुणतः समं वा - तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह - एकोऽपि संहननादियुक्तः पापानि - पापकारणान्यसदनुष्ठानानि
श्रीदशवैकालिकम् ।