________________
आइन्नओमाणविवज्जणा अ, . -.
ओसन्नदिट्ठाहडभत्तपाणे । संसहकप्पेण चरिज्ज भिक्खू,
तज्जायसंसट्ठ जई जइज्जा ॥५०५॥ आइण्णेत्ति-आकीर्णमवमानविवजना च विहारचर्या ऋषीणां प्रशस्तेति, तत्राऽऽकीर्ण-राजकुलसंखड्यादि, अवमानं-स्वपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जनं, आकीर्णे हस्तपादादिलूषणदोषाद, अवमाने अलाभाधाकर्मादिदोषादिति, तथोत्सन्नदृष्टाहृतंप्राय उपलब्धमुपनीतं, उत्सन्नशब्दः प्रायो वृत्तौ वर्तते, यथा “देवा उस्सन्नं सायं वेयणं वेयंति", किमित्याह भक्तपानं-ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं, यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादारत इत्यर्थः, "भिक्खग्गाही एगत्थ कुणइ, बीओ अ दोसु उवजोगमिति" वचनाद्, इत्येवम्भूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः, तथा संसृष्ट-कल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरिति उपदेशः, अन्यथा पुरःकर्मादिदोषात्, संसृष्टमेव विशिनष्टि-तज्जात संसृष्ट इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिर्यतेत-यत्नं कुर्याद्, अतज्जातसंसृष्टे संसर्जनादिदोषादिति, अनेनाष्टभङ्गसूचनं, तद्यथा- "संसढे हत्थे संसढे मत्ते सावसेसे दव्वे" इत्यादि, अत्र प्रथमो भङ्गः श्रेयान्, शेषाश्च चिन्त्या इत्यादि ।।५०५।।
उपदेशाधिकार एवेदमाहअमज्जमंसासि अमच्छरीआ,
अभिक्खणं निव्विगइं गया अ । अभिक्खणं काउस्सग्गकारी,
सज्झायजोगे पयओ हविज्जा ॥५०६॥ अमज्जेति, अमद्यमांसाशी भवेदिति योगः, अमद्यपः अमांसाशी २१४
श्रीदशवैकालिकम् ।