________________
तन्दुलान्वर्षति पर्जन्य" इति ॥५०२॥
तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं । चरिआ गुणा अ नियमा, अ हुंति साहूण दट्ठव्वा ॥५०३॥ तम्हेत्ति, यस्मादेतदेवमनन्तरोदितं तस्मादाचारपराक्रमेणेत्याऽऽचारेज्ञानादौ पराक्रमः -प्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेनेति - संवरे - इन्द्रियादिविषये समाधिः - अनाकुलत्वं बहुलं - प्रभूतं यस्य स तथाविध इति, समासः पूर्ववत्, तेनैवंविधेन सताऽप्रतिपाताय विशुद्धये च किमित्याह-चर्या - भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च-मूलोत्तरगुणरूपाः, नियमाश्च-उत्तरगुणानामेव पिण्डविशुद्धयादीनां स्वकालासेवननियोगा भवन्ति, साधूनां द्रष्टव्या इति एते चर्याऽऽदयः साधूनां दृष्टव्या भवन्ति, सम्यग्ज्ञानाऽऽ सेवनप्ररूपणारूपेणेति ॥५०३||
अनिएअवासो समुआणचरिआ, अन्नायउञ्छं पइरिक्कया अ ।
अप्पोवही कलहविवज्जणा य,
विहारचरिआ इसिणं पसत्था ॥ ५०४ ॥
चर्यामाह - अनिएएति, अनियतवासो मासकल्पादिना अनिकेतवासो वा-अगृहे-उद्यानादौ वास:, तथा समुदानचर्या - अनेकत्र याचितभिक्षाचरणं, अज्ञातोञ्छं- विशुद्धोपकरणग्रहणविषयं, पइरिक्कया य-विजनैकान्तसेविता च, अल्पोपधित्वं - अनुल्बणयुक्तस्तोकोपधिसेवित्वं, कलहविवर्जना चतथा तद्वासिजनभण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथादिनापि वर्जनमित्यर्थः । विहारचर्या - विहरणस्थितिः, विहरणमर्यादा, इयमेवंभूता ऋषीणां - साधूनां प्रशस्ता-व्याक्षेपाभावादाज्ञापालनेन भावचरणसाधनात्पवित्रेति ॥५०४||
विहारचर्या ऋषीणां प्रशस्तेत्युक्तं तद्विशेषोपदर्शनायाहश्रीदशवैकालिकम् ।
>
२१३