________________
प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह-प्रतिश्रोतोलब्धलक्ष्येणद्रव्यतस्तस्यामेव नद्यां कथञ्चिद्देवतानियोगात् प्रतीपश्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथञ्चिदवाप्तसंयमलक्ष्येण प्रतिश्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याऽभिमुखमेवाऽऽत्मा-जीवो दातव्यः-प्रवर्तयितव्यो भवितुकामेन-संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्या-ऽसन्मार्गप्रवणं चेतोऽपि कर्तव्यमपित्वाऽऽगमैकप्रवणेनैव भवितव्यमिति ।
उक्तं च-"निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः । तप:श्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥१॥ तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रसार्थेऽपि समाहितं मनः ॥२॥ तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्याऽऽपदं सघृण एव विमध्यबुद्धिः । प्राणाऽत्ययेऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लवयितुं समर्थः ॥३॥" इत्यलं प्रसंगेनेति ॥५०१॥
अधिकृतमेव स्पष्टयन्नाहअणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥५०२॥ __ अणुसोएत्ति, अनुश्रोतःसुखो लोकः उदकनिम्नाऽभिसर्पणवत् प्रवृत्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, प्रतिश्रोत एव तस्माद्विपरीत आश्रवः-इन्द्रियविजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः, आश्रमो वा-व्रतग्रहणादिरूपः सुविहितानां-साधूनां, उभयलोके फलमाह-अनुश्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचाराद्, यथा “विषं मृत्युः, दधि त्रपुषी प्रत्यक्षो ज्वरः," प्रतिश्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी "सुपां सुपो भवन्तीति" वचनात्, तस्मात्संसारादुत्तारः उत्तरणमुत्तारो, हेतौ फलोपचारात्, यथा- "आयुघृतं, २१२
श्रीदशवैकालिकम् ।