________________
तहेव गंतुमिति, तथैवेति पूर्ववत्, गत्वा उद्यानं - जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् तथा वनानि च तत्र वृक्षान्महतो-महाप्रमाणान् प्रेक्ष्य- दृष्ट्वा नैवं भाषेत प्रज्ञावान् साधुरिति ॥ ३०३ ॥
"
कथमित्याह
अलं पासायखंभाणं, तोरणाण गिहाण अ । फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥ ३०४॥ अलमिति, अलं-पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तयोरलं, तथा तोरणानां - नगरतोरणादीनां गृहाणां च कुटीरकादीनामलमिति योग:, तथा परिघार्गलानावां वा तत्र नगरद्वारे परिघः, गोपुरं - कपाटादिषु अर्गला, नौः प्रतीता, आसां अलं एते वृक्षा:, तथोदकद्रोणीनामलं, उदकद्रोण्योऽरहट्टजलधारिका इति ॥ ३०४||
पीढए चंगबेरे ( रा ) अ, नंगले मइयं सिआ । जंतलट्ठी व नाभी वा, गंडिआ व अलं सिआ ||३०५ ॥
तथा पीढए इति, पीठ्कायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थं, " सुपां सुपो भवन्तीति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं तथा चंगबेरा येत्ति चंगबेरा - काष्ठपात्रो तथा नङ्गलेत्ति नांगलं-हलं, तथा अलं मयिकाय स्यात्, मयिकं - उप्तबीजाच्छादनं तथा यन्त्रयष्टये वा. यंत्रयष्टिः प्रसिद्धा, नाभये वा, नाभिः शकटरथाङ्गं गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवतीति ॥ ३०५ ॥
१२६
,
आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं नेवं भासिज्ज पन्नवं ॥ ३०६ ॥ तथा आसणंति, आसनं- आसन्दकादि, शयनं - पर्यङ्कादि, यानं
श्रीदशवैकालिकम् ।