________________
युग्यादि, भवेद्वा किंचिदुपाश्रये-वसतावन्यद्वा द्वारपात्राद्येतेषु वृक्षेष्विति, भूतोपघातिनी-सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति, दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ॥३०६।।
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥३०७॥ अत्रैव विधिमाह-तहेवत्ति, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥३०७॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया । पजायसाला विडिमा, वए दरिसणित्ति अ ॥३०८॥
जाइमंतत्ति, जातिमन्तः-उत्तमजातीया अशोकादयोऽनेकप्रकारा वा एते-उपलभ्यमानस्वरूपा वृक्षा दीर्घवृत्ता महालयाः-दीर्घा नालिकेरिप्रभृतयो, वृत्ता नन्दिवृक्षादयो, महालया वटादयः, प्रजातशाखा-उत्पन्नडाला, विटपिन:-प्रशाखावन्तो वदेदर्शनीया इति, एते च प्रयोजने उत्पन्ने विश्रमण-तदासन्नमार्गकथनादौ वदेन्नान्यदेति ॥३०८॥
तहा फलाइं पक्काई, पायखज्जाइं नो वए । वेलोइयाइं टालाइं, वेहिमाइ त्ति नो वए ॥३०९॥
तहा फलाइं पक्काइत्ति, तथा फलानि-आम्रफलादीनि पक्वानिपाकप्राप्तानि, तथा पाकखाद्यानि-बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत्, तथा वेलोचितानि-पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानिअबद्धास्थीनि कोमलानीति यदुक्तं भवति, तथा द्वैधिकानीति-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति नो वदेत्, दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां, न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति ॥३०९॥ श्रीदशवैकालिकम् ।
१२७