________________
वध्यो-व्यापादनीयः पाक्य इति च नो वदेत्, पाक्य:-पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, नो वदेत्-न ब्रूयात् तदप्रीति-तद्व्यापत्त्याशङ्कादिदोषप्रसङ्गादिति ॥२९९॥
कारणे पुनरुत्पन्ने एवं वदेदित्याहपरिवूढत्ति णं बूआ, बूआ उवचिअत्ति अ । संजाए पीणिए वावि, महाकायत्ति आलवे ॥३००॥
परिवूढत्ति, परिवृद्ध इति एनं-स्थूलं मनुष्यादि ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणित-श्चापि सस्निग्धः महाकाय इति चालपेत् परिवृद्ध, पलोपचितं परिहरेदि-त्यादाविति ॥३०॥
तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति अ । वाहिमा रहजोगित्ति, नेवं भासिज्ज पन्नवं ॥३०१॥
किंच-तहेवत्ति, तथैव यथैव गावो दोह्या-दोहार्हा-दोहसमय आसां वर्तत इत्यर्थः, दम्या-दमनीया गोरथका इति च, गोरथकाः कल्होडकास्तथा वाह्याः सामान्येन ये क्वचित्तानाश्रित्य रथयोग्या इति च नैवं भाषेत प्रज्ञावान् साधुः, अधिकरण-लाघवादिदोषादिति ॥३०१॥
प्रयोजने तु क्वचिदेवं भाषेतेत्याहजुवं गवित्ति णं बूआ, घेणुं रसदयत्ति अ । रहस्से महल्लए वावि, वए संवहणित्ति अ ॥३०२॥
जुवं गवेति, युवा गौरिति दम्यो गौर्युवेति ब्रूयात्, धेनु-गां रसदेति च ब्रूयात्, रसदा गौरिति, तथा ह्रस्वं महल्लकं वापि गोरथकं हस्वं वाह्यं महल्लकं वदेत्, संवहनमिति च रथयोग्यं संवहनं वदेत्, क्वचिद्दिगुपलक्षणादौ प्रयोजन इति ॥३०२॥
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ ।
रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नवं ॥३०३॥ श्रीदशवैकालिकम् ।
१२५