________________
तमर्थमिति ॥२९०॥
तहेव होले गोलित्ति, साणे वा वसुलित्ति अ । दमए दुहए वावि, नेवं भासिज्ज पन्नवं ॥२९१॥
तहेव त्ति, तथैव होले गोले इति श्वा वा वसुल इति, द्रमको दुर्भगश्चापि नैवं भाषेत प्रज्ञावान्, इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचका अतस्तत्प्रतिषेध इति ॥२९१।।
एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वा अधुना स्त्रियमधिकृत्याह
अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति, धूए णत्तुणिअत्ति अ ॥२९२॥
अज्जिएत्ति, आयि(जि)के प्रायि( जि) के वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति, दुहितः नप्त इति च, एतानि स्त्र्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माता आर्यिका, तस्या अपि या अन्या माता सा प्रायिका, शेषाभिधानानि प्रकटार्थानि एवेति सूत्रार्थः ॥२९२॥
हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इथिअं नेवमालवे ॥२९३॥
किंच-हले हलेत्ति, हले इत्येवं अन्ने इत्येवं तथा भट्टे स्वामिनि गोमिनि, तथा हले गोले वसुले इत्येतान्यपि नानादेशापेक्षया स्त्र्यामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हो(ह)लादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्ग-गर्हा-तत्प्रद्वेषप्रवचनलाघवादय इति ॥२९३॥ । यदि नैवमालपेत् कथं तर्हि आलपेदित्याह
श्रीदशवैकालिकम् ।
१२२