SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ नामधिज्जेण णं बूआ, इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ॥२९४॥ नामधिज्जेणन्ति, नामधेयेनेति-नाम्नैव नामधेयेनैनां ब्रूयात्, स्त्रियं क्वचित्कारणे, यथा देवदत्ते ! इत्येवमादि, नामास्मरणादौ गोत्रेण वा पुनर्ब्रयात् स्त्रियं, यथा काश्यपगोत्रे ! इत्येवमादि, यथार्ह-यथायोग्यं वयोदेशैश्वर्याद्यपेक्षया अभिगृह्य-गुणदोषानालोच्यालपेल्लपेद्वा, ईषत्सकृद्वा लपनं आलपनं, लपनमतोऽन्यथा, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रिया, अन्यत्रोच्यते धर्मशीले इत्यादि, अन्यथा च यथा न लोकोपघात इति ॥२९४॥ उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च, साम्प्रतं पुरुषमधिकृत्याह अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति अ । माउलो भाइणिज्जत्ति, पुत्ते णत्तुणिअत्ति अ ॥२९५॥ अज्जए पज्जएत्ति, आर्यकः प्रार्यकश्चापि बप्पश्चल्लपितेति च, तथा मातुल भागिनेयेति, पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव दृष्टव्यः नवरं चुल्लबप्पः-पितृव्योऽभिधीयत इति ॥२९५॥ हे भो हलित्ति अन्नित्ति, भट्टे सामिअ गोमिअ । होल गोल वसुलिति, पुरिसं नेवमालवे ॥२९६॥ किंच-हे भो हलित्ति, अन्नेति भट्ट स्वामिन् गोमिन् होल गोल वसुलिति पुरुषं नैवमालपेदित्यत्रापि भावार्थः पूर्ववदेवेति ॥२९६।। यदि नैवमालपेत्कथं तालपेदित्याहनामधिज्जेण णं बूआ, पुरिसगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ॥२९७॥ नामधिज्जेणं ति पूर्ववदेव, नवरं पुरुषाभिलापेन योजना श्रीदशवैकालिकम् । १२३
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy