________________
भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ॥२८६॥
अईयंमि अ कालंमि, पच्चुप्पण्णमणागए । निस्संकिअं भवे जं तु, एवमेअं तु निद्दिसे ॥२८७॥
अईयंमि, अतीते च काले प्रत्युत्पन्ने अनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दात् अनवद्यं, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्तिस्तोकस्तोकमिति, तत्र परिमितया वाचा निर्दिशेदिति ॥२८७।।
तहेव फरुसा भासा, गुरुभूओवघाइणी । सच्चावि सा न वत्तव्वा, जओ पावस्स आगमो ॥२८८॥
तहेवत्ति, तथैव, परुषा भाषा-निष्ठुरा साधुभावस्नेहरहिता गुरुभूतोपघातिनी-महाभूतोपघातवती, यथा (भवति तथा) कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थाऽतथाभावमङ्गीकृत्य न वक्तव्या, यतो यस्या भाषायाः सकाशात्पापस्यागमः-अकुशलबन्धो भवति ॥२८८॥
तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहिअं वावि रोगित्ति, तेणं चोरत्ति नो वए ॥२८९॥
तहेवत्ति, तथैवेति पूर्ववत्, काणं-भिन्नाक्षं काण इति, तथा पण्डकं-नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनंचौरं चौर इति नो वदेत्, अप्रीति-लज्जानाश-स्थिररोगबुद्धि-विराधनादिदोषप्रसङ्गादिति ॥२८९॥
एएणऽन्नेण अटेणं, परो जेणुवहम्मइ । आयारभावदोसन्नू, न तं भासिज्ज पन्नवं ॥२९०॥
एएणं ति, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, 'येन केनचित्प्रकारेण। आचारभावदोषज्ञो यतिर्न तं भाषेत प्रज्ञावान् श्रीदशवैकालिकम् ।
१२१