________________
तम्हत्ति, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्धयते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्यं वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति ॥२८३॥
एवमाइ उ जा भासा, एसकालंमि संकिया । संपयाईअमढे वा, तंपि धीरो विवज्जए ॥२८४॥
एवमाइ उ इति, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्काले-भविष्यत्कालविषया, बहुविघ्नत्वान्मुहूर्तादीनां शङ्किता-किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाऽविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्द-तत्स्त्र्याद्यनिश्चये तदात्र गौरस्माभिर्दृष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेर्विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति ॥२८४॥ किं च -
अईअंमि अ कालंमि, पच्चुप्पण्णमणागए । जमहूँ तु न जाणिज्जा, एवमेअंति नो वए ॥२८५॥
अईअंमि इति, अतीते च काले तथा प्रत्युत्पन्ने-वर्तमाने अनागते च यमर्थं तु न जानीयात्सम्यगेवमयमिति, तमङ्गीकृत्यैवमेतदिति न ब्रूयादिति, अयमज्ञातभाषणप्रतिषेधः ॥२८५॥
अईयंमि अ कालंमि, पच्चुप्पण्णमणागए । जत्थ संका भवे तं तु, एवमेअंति नो वए ॥२८६॥ तथा-अईयम्मि-अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का
१२०
श्रीदशवैकालिकम् ।