________________
प्रज्ञावान्- बुद्धिमान् साधुरिति ॥ २८० ॥ साम्प्रतं सत्या-ऽसत्यामृषाप्रतिषेधार्थमाह
एअं च अट्ठमन्नं वा, जं तु नामेइ सासयं । स भासं सच्चमोसंपि, तंपि धीरो विवज्जए ॥ २८१ ॥
1
एयं चत्ति, एतं चार्थमनन्तर - प्रतिषिद्धं सावद्यकर्कशविषयमन्यं वा, एवंजातीयं प्राकृतशैल्या यस्तु नामयति शाश्वतं य एव कश्चिदर्थो नामयति-अननुगुणं करोति, शाश्वतंमोक्षं, तमाश्रित्य स साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्तां, अपिशब्दात् सत्यापि या तथाभूता तामपि धीरोबुद्धिमान् विवर्जयेत् - न ब्रूयादिति भावः । आह-सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थं अङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्त्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति ॥ २८२ ॥
साम्प्रतं मृषाभाषासंरक्षणार्थं आह
वितहंपि तहामुत्ति, जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ॥ २८२ ॥
वितर्हपि, वितथं अतथ्यं तथामूर्त्यपि कथञ्चित्तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः सम्बन्धः, एतदुक्तं भवति-पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति चेत्यादिरूपां, तस्माद्भाषणादेवम्भूतात्पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन-बद्धः कर्म्मणा, किं पुनर्यो मृषां वक्ति ?, भूतोपघातिनीं वाचं स सुतरां बाध्य(बद्धय )त इति ॥ २८२॥
तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥ २८३ ॥
श्रीदशवैकालिकम् ।
११९