________________
विनयं - शुद्धप्रयोगं विनीयतेऽनेन कम्र्मेतिकृत्वा शिक्षेत्- जानीयात्, द्वेअसत्य-सत्यामृषे न भाषेत सर्व्वशः सर्वैः प्रकारैरिति ॥२७८॥
विनयमेवाह
जा अ 'सच्चा अवत्तव्वा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं णाइण्णा, न तं भासिज्ज पन्नवं ॥ २७९ ॥
जाय सच्चत्ति, या च सत्या पदार्थतत्त्वमङ्गीकृत्य अवक्तव्याअनुच्चारणीया सावद्यत्वेन - अमुत्र स्थिता पल्लीरिति कौशिक - भाषावत्, सत्यामृषा वा यथा-दश दारका जाता इत्येवंलक्षणा, मृषा च संपूर्णैव, चशब्दस्य व्यवहितः सम्बन्ध:, या च बुद्धैः - तीर्थकरगणधरैरनाचरिता असत्यामृषा-आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, न तां भाषेत, नेत्थंभूतां वाचमुदाहरेत् प्रज्ञावान् - बुद्धिमान् साधुरिति सूत्रार्थः ॥२७९॥
यथाभूता अवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह
असच्चमोसं सच्चं च, अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ॥ २८०॥
असच्चमोसन्ति, असत्यामृषामुक्तलक्षणां सत्यां चोक्तलक्षणामेव, इयं च सावद्यापि सकर्कशापि भवत्यत आह-असावद्यांअपापां, अकर्कशामतिशयोक्त्या ह्यमत्सरपूर्वी, संप्रेक्ष्य स्वपरोपकारिणीति बुद्ध्या आलोच्याऽसंदिग्धां-स्पष्टामक्षेपेण प्रतिपत्तिहेतुं, गिरं-वाचं, भाषेतब्रूयात्,
१. सत्या = ( यथार्था ) तथ्या भाषा ।
२. असत्यामृषा व्यवहार भाषा ।
३. सत्यामृषा
मिश्रभाषा ।
४. असत्या
(अयथार्था) अतथ्या भाषा ।
११८
=
श्रीदशवैकालिकम् ।