________________
भावकिञ्चनविनिर्मुक्ताः, स्वा-आत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवलश्रुतरूपा तथा स्वविद्यया विद्यया अनुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-यशस्विनः-शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने-परिणते शरत्कालादौ विमल इव चन्द्रमा:-चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धि-निवृत्ति तथा सावशेषकर्माणो विमानानि-सौधर्मावतंसकादीन्युपयान्ति-सामीप्येन गच्छन्ति त्रातारः-स्वपरापेक्षया साधव इति ॥२७७।। ब्रवीमीति पूर्ववदेव ॥
दशवैकालिकश्रुतस्कन्धषष्ठाध्ययनव्याख्या समाप्तेति ||६||
अथ वाक्यशुद्धिनाम सप्तमं अध्ययनम् । व्याख्यातं महाचारकथाध्ययनं, इदानीं वाक्यशुद्धयाख्यमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः इहानन्त-राध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यमिति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तं, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्यमित्येतदुच्यते, उक्तं च-"सावज्जऽणवज्जाण"मिति अनेन सम्बन्धेनायातमिदमध्ययनमिति, तच्चेदम्
चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥२७८॥
चउण्हंति, चतसृणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति । भाषाणां-सत्यादीनां परिसङ्ख्याय-सर्वैः प्रकारैत्विा, स्वरूपमिति वाक्यशेषः । प्रज्ञावान्-प्राज्ञो बुद्धिमान् साधुः, किमित्याह-द्वाभ्यां सत्या-ऽसत्यामृषाभ्यां, तुरवधारणे द्वाभ्यामेव आभ्यां श्रीदशवैकालिकम् ।
११७