________________
विभूसावत्ति, विभूषाप्रत्ययं-विभूषानिमित्तं चेत एवं च यदि मम विभूषा सम्पद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासहितं (सदृशं) सावद्यबहुलं चैतदातध्यानानुगतं चेतः, नैतदित्थम्भूतं त्रातृभिरात्मारामैरायः साधुभिः सेवितमा-चरितं, कुशलचित्तत्वात्तेषामिति ॥२७५॥
उक्तः शोभावर्जनस्थानविधिस्तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाहखवंति अप्पाणममोहदंसिणो, तवे रया संजमअज्जवे गुणे । धुणंति पावाइं पुरेकडाइं, नवाई पावाइं न ते करंति ॥२७॥ ___ खवंतित्ति, क्षप-यन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा इत्याह-अमोहदर्शिनः-अमोहं ये पश्यन्ति, यथावत्पश्यन्ति य इत्यर्थः, त एव विशेष्यन्ते-तपसि-अनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह-संयमार्जवगुणे प्राकृतत्वादेकारः संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने शुद्ध इत्यर्थः, ते एवंभूता धुन्वन्ति-कम्पयन्ति अपनयन्ति, पापानि पुराकृतानिजन्मान्तरोपात्तानि, नवानि-प्रत्यग्राणि पापानि न ते साधवः कुर्वन्ति, तथा अप्रमत्तत्वादिति ॥२७६॥ सओवसंता अममा अकिंचणा,
सविज्जविज्जाणुगया जसंसिणो । उउप्पसन्ने विमलेव चंदिमा,
सिद्धिं विमाणाई उति ताइणो ॥२७७॥ त्तिबेमि । छटुं धम्मत्थकामज्झयणं समत्तं ६ ॥
किं च सओवसंतत्ति, सदोपशान्ताः-सर्वकालमेव क्रोधरहिताः अममाः-सर्वत्र ममत्वशून्याः, अकिञ्चना-हिरण्यादिमिथ्यात्वादि-द्रव्य११६
श्रीदशवैकालिकम् ।