________________
किंच-सिणाणन्ति, स्नानं पूर्वोक्तं अथवा कल्कं-चन्दनादि, लोनं-गन्धद्रव्यं, पद्मकानि च- कुङ्कमकेसराणि, चशब्दादन्यच्चैवंविधं गात्रस्योद्वर्तनाथ-उद्वर्तननिमित्तं नाचरन्ति कदाचिदपि-यावज्जीवमिति भावसाधव इति ॥२७२॥
उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशं स्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः, “अलङ्कतश्चापि धर्ममाचरेदि" त्यादिवचनात् पराभिप्रायमात्रमाशङ्कयाह
नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं ? ॥२७३॥
नगिणत्ति-नग्नस्यापि-कुचेलवतोऽपि उपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यविषयमेव सूत्रं, मुण्डस्यद्रव्यभावाभ्यां, दीर्घरोमनखवतः-दीर्घरोमवत: कक्षादिषु, दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनादुपशान्तस्योपरतस्य किं विभूषयाराढया प्रयोजनं (कार्य) ?, न किञ्चिदिति ॥२७३॥
इत्थं प्रयोजनाभावमभिधायापायमाहविभूसावत्तिअं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ दुरुतरे ॥२७४॥
विभूसत्ति, विभूषाप्रत्ययंविभूषानिमित्तं भिक्षुः-साधुः कर्म बध्नाति चिक्कणं-दारुणं संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुतरे-अकुशलानुबंधतोऽत्यन्तदीर्घ इति ॥२७४।।
एवं बाह्यबिभूषापायमभिधाय सङ्कल्पविभूषापायमाहविभूसावत्तिअं चेअं, बुद्धा मन्नंति तारिसं ।
सावज्जबहुलं चेअं, नेयं ताईहिं सेविअं ॥२७॥ श्रीदशवैकालिकम् ।