________________
वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुक्कं तो होइ आयारो, जढो हवइ संजमो ॥२६९॥
वाहिओ वेति, व्याधिमान्-व्याधिग्रस्तः, अरोगी वा-रोगविप्रमुक्तो वा, स्नानं-अङ्गप्रक्षालनं, यस्तु प्रार्थयते-सेवत इत्यर्थः, तेनेत्थम्भूतेन व्युत्क्रान्तो भवति आचारो-बाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, जढः-परित्यक्तो भवति, संयमः-प्राणिनां रक्षणादिकोऽप्कायादिविराधनादिति ॥२६९॥
प्रासुकस्नानेन कथं संयमपरित्याग इत्याहसंतिमे सुहमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥२७०॥
संतिमे, सन्त्येते प्रत्यक्षो-पलभ्यमानस्वरूपाः, सूक्ष्मा-श्लक्ष्णाः, प्राणिनो-द्वीन्द्रियादयः, घसासु-शुषिरभूमिषु, भिलुकासु चतथाविधभूमिराजीषु च, यांस्तु भिक्षुः स्नपयन् स्नानजलोज्झनक्रियया विकृतेन-प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति ॥२७०॥
निगमयन्नाहतम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिट्ठगा ॥२७१॥
तम्हत्ति, यस्मादेवमुक्तदोषप्रसङ्गस्तस्मात्ते साधवो न स्नान्ति शीतोदकेनोष्णोदकेन वा प्रासुकेनाऽप्रासुकेन वेत्यर्थः । किंविशिष्टास्त इत्याह-यावज्जीवं-आजन्म, व्रतं घोरं-दुरनुचरमस्नानमाश्रित्य अधिष्ठातारः-अस्यैव कर्तार इति ॥२७१।।
सिणाणं अदुवा कक्कं , लुद्धं पउमगाणि अ । गायस्सुव्वट्टणट्ठाए, नायरंति कयाइवि ॥२७२॥
श्रीदशवैकालिकम् ।
११४